|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.14. अध्यायः 014
Mahabharata - Udyoga Parva - Chapter Topics
स्तुत्या प्रत्यक्षीभूतया उपश्रुतिदेव्यासह पद्मनालभेदनेन तद्विवरं गतया शच्या तत्रस्थेन्द्रदर्शनम् ॥ 1 ॥ तथा इन्द्रं स्तुत्वा नहुषवृत्तान्तकथनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
शल्य उवाच। 5-14-0x(3388)(32135)
अथैनां रूपिणी साध्वीमुपातिष्ठदुपश्रुतिः।
तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥ 5-14-1(32136)
इन्द्राणी संप्रहृष्टात्मा संपूज्यैनामथाब्रवीत्।
इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥ 5-14-2(32137)
उपश्रुतिरुवाच। 5-14-3x(3389)
उपश्रुतिरहं देवि तवान्तिकमुपागता।
दर्शनं चैव संप्राप्ता तव सत्येन भामिनि ॥ 5-14-3(32138)
पतिव्रता च युक्ता च यमेन नियमेन च।
दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ॥ 5-14-4(32139)
क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम्।
ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ॥ 5-14-5(32140)
देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।
हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत्॥ 5-14-6(32141)
समुद्रं च समासाद्य बहुयोजनविस्तृतम्।
आससाद महाद्वीपं नानाद्रुमलतावृतम् ॥ 5-14-7(32142)
तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम्।
शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥ 5-14-8(32143)
तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।
षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः॥ 5-14-9(32144)
सरसस्तस्य मध्ये तु पद्मिनी महती शुभा ।
गौरेणोन्नतनालेन पद्मेन महता वृता ॥ 5-14-10(32145)
पद्मस्य भित्त्वा नालं च विवेश सहिता तया।
बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥ 5-14-11(32146)
तं दृष्ट्वा च सुसूक्ष्मेण रूपेणावस्थितं प्रभुम् ।
सूक्ष्मरूपधरा देवी बभूवोपश्रुतिश्च सा॥ 5-14-12(32147)
इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः।
स्तूयमानस्ततो देवः शचीमाह पुरन्दरः ॥ 5-14-13(32148)
किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम्।
ततः सा कथयामास नहुषस्य विचेष्टितम् ॥ 5-14-14(32149)
इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यसमन्वितः ।
दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ॥ 5-14-15(32150)
उपतिष्ठेति स क्रूरः कालं च कृतवान्मम ।
यदि न त्रास्यसि विभो करिष्यति स मां वशे ॥ 5-14-16(32151)
एतेन चाहं संप्राप्ता द्रुतं शक्र तवान्तिकम्।
जहि रौद्रं महाबाहो नहुषं पापनिश्चयम् ॥ 5-14-17(32152)
प्रकाशयस्व चात्मानं दैत्यदानवसूदन।
तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥ ॥ 5-14-18(32153)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि चतुर्दशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-14-16 त्रास्यसि पालयिष्यसि ॥ 16 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|